🏠

॥ भगवद्गीता — पञ्चदशोऽध्यायः ॥

पुरुषोत्तमयोगः

॥ श्लोक 15.1 ॥

श्रीभगवानुवाच ।
ऊर्ध्वमूलम् अधःशाखम् अश्वत्थं प्राहूर् अव्ययम् ।
छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित् ॥

व्याख्या
॥ श्लोक 15.2 ॥

अधश् चो‌र्ध्वं प्रसृतास् तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः ।
अधश् च मूलान्य् अनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥

व्याख्या
॥ श्लोक 15.3 ॥

न रूपम् अस्येह तथोपलभ्यते
नान्तो न चा‌दिर् न च सम्प्रतिष्ठा ।
अश्वत्थम् एनं सुविरूढमूलम्
असङ्गशस्त्रेण दृढेन छित्त्वा ॥

व्याख्या
॥ श्लोक 15.4 ॥

ततः पदं तत् परिमार्गितव्यं
यस्मिन् गता न निवर्तन्ति भूयः ।
तम् एव चा‌द्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ॥

व्याख्या
॥ श्लोक 15.5 ॥

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर् विमुक्ताः सुखदुःखसंज्ञैर्
गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ॥

व्याख्या
॥ श्लोक 15.6 ॥

न तद् भासयते सूर्यो न शशाङ्को न पावकः ।
यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥

व्याख्या
॥ श्लोक 15.7 ॥

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥

व्याख्या
॥ श्लोक 15.8 ॥

शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर् गन्धान् इवा‌शयात् ॥

व्याख्या
॥ श्लोक 15.9 ॥

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च ।
अधिष्ठाय मनश् चायं विषयान् उपसेवते ॥

व्याख्या
॥ श्लोक 15.10 ॥

उत्क्रामन्तं स्थितं वा‌पि भुञ्जानं वा गुणान्वितम् ।
विमूढा ना‌नुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥

व्याख्या
॥ श्लोक 15.11 ॥

यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् ।
यतन्तोऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ॥

व्याख्या
॥ श्लोक 15.12 ॥

यद् आदित्यगतं तेजो जगद् भासयतेऽखिलम् ।
यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥

व्याख्या
॥ श्लोक 15.13 ॥

गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥

व्याख्या
॥ श्लोक 15.14 ॥

अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः ।
प्राणापानसमायुक्तः पचाम्य् अन्नं चतुर्विधम् ॥

व्याख्या
॥ श्लोक 15.15 ॥

सर्वस्य चा‌हं हृदि सन्निविष्टो
मत्तः स्मृतिर् ज्ञानम् अपोहनं च ।
वेदैश् च सर्वैर् अहम् एव वेद्यो
वेदान्तकृद् वेदविद् एव चा‌हम् ॥

व्याख्या
॥ श्लोक 15.16 ॥

द्वाव् इमौ पुरुषौ लोके क्षरश् चा‌क्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥

व्याख्या
॥ श्लोक 15.17 ॥

उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।
यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥

व्याख्या
॥ श्लोक 15.18 ॥

यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥

व्याख्या
॥ श्लोक 15.19 ॥

यो माम् एवम् असम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद् भजति मां सर्वभावेन भारत ॥

व्याख्या
॥ श्लोक 15.20 ॥

इति गुह्यतमं शास्त्रम् इदम् उक्तं मया‌नघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश् च भारत ॥

व्याख्या