श्रीभगवानुवाच ।
अभयं सत्त्वसंशुद्धिर् ज्ञानयोगव्यवस्थितिः ।
दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ॥
अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् ।
दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचपलम् ॥
तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता ।
भवन्ति सम्पदां दैवीम् अभिजातस्य भारत ॥
दम्भो दर्पोऽभिमानश् च क्रोधः पारुष्यम् एव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पद् आसुरीम् ॥
दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदां दैवीम् अभिजातोऽसि पाण्डव ॥
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥
प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥
असत्यम् अप्रतिष्ठं ते जगद् आहूर् अनीश्वरम् ।
अपरस्परसम्भूतं किम् अन्यत् कामहैतुकम् ॥
एतां दृष्टिम् अवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्य् उग्रकर्माणः क्षयाय जगतोऽहिताः ॥
कामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद् गृहीत्वासद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥
चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः ।
कामोपभोगपरमा एतावद् इति निश्चिताः ॥
आशापाशशतैर् बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयान् ॥
इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनोरथम् ।
इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥
असौ मया हतः शत्रुः हनिष्ये चापरान् अपि ।
ईश्वरोऽहम् अहं भोगी सिद्धोऽहं बलवान् सुखी ॥
आढ्योऽभिजनवान् अस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञानविमोहिताः ॥
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस् ते दम्भेनाविधिपूर्वकम् ॥
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
माम् आत्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥
त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः ।
कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् ॥
एतैर् विमुक्तः कौन्तेय तमोद्वारैस् त्रिभिर् नरः ।
आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥
यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः ।
न स सिद्धीम् अवाप्नोति न सुखं न परां गतिम् ॥
तस्माच् छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि ॥