अर्जुन उवाच ।
ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥
श्रीभगवानुवाच ।
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच् छ्रद्धः स एव सः ॥
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।
प्रेतान् भूतगणांश् चान्ये यजन्ते तामसा जनाः ॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥
कर्षयन्तः शरीरस्थं भूतग्रामम् अचेतसः ।
मां चैवान्तःशरीरस्थं तान् विद्ध्य् आसुरनिश्चयान् ॥
आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ 17.8 ॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ 17.9 ॥
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ 17.10 ॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ 17.11 ॥
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ 17.12 ॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ 17.13 ॥
देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥
मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः ।
भावसंशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ॥
श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥
दातव्यम् इति यद् दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥
यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥
अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते ।
असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥
ओम् तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः ।
ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥
तस्माद् ओम् इत्य् उदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥
तद् इत्य् अनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश् च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥
सद्भावे साधुभावे च सद् इत्य् एतत् प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच् छब्दः पार्थ युज्यते ॥
यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते ।
कर्म चैव तदर्थीयं सद् इत्य् एवाभिधीयते ॥
अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् ।
असदित्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥