🏠

॥ भगवद्गीता — अष्टादशोऽध्यायः ॥

मोक्षसंन्यासयोगः

॥ श्लोक 18.1 ॥

अर्जुन उवाच ।
संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥

व्याख्या
॥ श्लोक 18.2 ॥

श्रीभगवानुवाच ।
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः ॥

व्याख्या
॥ श्लोक 18.3 ॥

त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यम् इति चा‌परे ॥

व्याख्या
॥ श्लोक 18.4 ॥

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥

व्याख्या
॥ श्लोक 18.5 ॥

यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् ।
यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ॥

व्याख्या
॥ श्लोक 18.6 ॥

एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ॥

व्याख्या
॥ श्लोक 18.7 ॥

नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥

व्याख्या
॥ श्लोक 18.8 ॥

दुःखम् इत्य् एव यत् कर्म कायक्लेशभयात् त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥

व्याख्या
॥ श्लोक 18.9 ॥

कार्यम् इत्य् एव यत् कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥

व्याख्या
॥ श्लोक 18.10 ॥

न द्वेष्ट्य् अकुशलं कर्म कुशले ना‌नुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥

व्याख्या
॥ श्लोक 18.11 ॥

न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः ।
यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते ॥

व्याख्या
॥ श्लोक 18.12 ॥

अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥

व्याख्या
॥ श्लोक 18.13-18.14 ॥

पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥
अधिष्ठानं तथा कर्ता करणं च पृथग्-विधम् ।
विविधाश् च पृथक् चेष्टा दैवं चैवा‌त्र पञ्चमम् ॥

व्याख्या
॥ श्लोक 18.15 ॥

शरीरवाङ्मनोभिर् यत् कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥

व्याख्या
॥ श्लोक 18.16 ॥

तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः ।
पश्यत्य् अकृतबुद्धित्वान् न स पश्यति दुर्मतिः ॥

व्याख्या
॥ श्लोक 18.17 ॥

यस्य नाहङ्कृतो भावो बुद्धिर् यस्य न लिप्यते ।
हत्वा‌पि स इमांल् लोकान् न हन्ति न निबध्यते ॥

व्याख्या
॥ श्लोक 18.18 ॥

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥

व्याख्या
॥ श्लोक 18.19 ॥

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने यथावच् छृणु तान्य् अपि ॥

व्याख्या
॥ श्लोक 18.20 ॥

सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते ।
अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥

व्याख्या
॥ श्लोक 18.21 ॥

पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्-विधान् ।
वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥

व्याख्या
॥ श्लोक 18.22 ॥

यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहैतुकम् ।
अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् ॥

व्याख्या
॥ श्लोक 18.23 ॥

नियतं सङ्गरहितम् अरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥

व्याख्या
॥ श्लोक 18.24 ॥

यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासम् तद् राजसम् उदाहृतम् ॥

व्याख्या
॥ श्लोक 18.25 ॥

अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् ।
मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥

व्याख्या
॥ श्लोक 18.26 ॥

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥

व्याख्या
॥ श्लोक 18.27 ॥

रागी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥

व्याख्या
॥ श्लोक 18.28 ॥

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥

व्याख्या
॥ श्लोक 18.29 ॥

बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रिविधं शृणु ।
प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥

व्याख्या
॥ श्लोक 18.30 ॥

प्रवृत्तिं च निवृत्तिं च कार्या‌कार्ये भया‌भये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥

व्याख्या
॥ श्लोक 18.31 ॥

यया धर्मम् अधर्मं च कार्यं चा‌कार्यम् एव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥

व्याख्या
॥ श्लोक 18.32 ॥

अधर्मं धर्मम् इति या मन्यते तमसा‌वृता ।
सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥

व्याख्या
॥ श्लोक 18.33 ॥

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेना‌व्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥

व्याख्या
॥ श्लोक 18.34 ॥

यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥

व्याख्या
॥ श्लोक 18.35 ॥

यया स्वप्नं भयं शोकं विषादं मदम् एव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥

व्याख्या
॥ श्लोक 18.36 ॥

सुखं त्व् इदानीं त्रिविधं शृणु मे भरतर्षभ ।
अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति ॥

व्याख्या
॥ श्लोक 18.37 ॥

यत् तद् अग्रे विषम् इव परिणामेऽमृतोपमम् ।
तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥

व्याख्या
॥ श्लोक 18.38 ॥

विषयेन्द्रियसंयोगाद् यत् तद् अग्रेऽमृतोपमम् ।
परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥

व्याख्या
॥ श्लोक 18.39 ॥

यद् अग्रे चा‌नुबन्धे च सुखं मोहनम् आत्मनः ।
निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥

व्याख्या
॥ श्लोक 18.40 ॥

न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥

व्याख्या
॥ श्लोक 18.41 ॥

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः ॥

व्याख्या
॥ श्लोक 18.42 ॥

शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च ।
ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥

व्याख्या
॥ श्लोक 18.43 ॥

शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् ।
दानम् ईश्वरभावश् च क्षात्रं कर्म स्वभावजम् ॥

व्याख्या
॥ श्लोक 18.44 ॥

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्या‌त्मकं कर्म शूद्रस्या‌पि स्वभावजम् ॥

व्याख्या
॥ श्लोक 18.45 ॥

स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच् छृणु ॥

व्याख्या
॥ श्लोक 18.46 ॥

यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् ।
स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥

व्याख्या
॥ श्लोक 18.47 ॥

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन् ना‌प्नोति किल्बिषम् ॥

व्याख्या
॥ श्लोक 18.48 ॥

सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निर् इवा‌वृताः ॥

व्याख्या
॥ श्लोक 18.49 ॥

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेना‌धिगच्छति ॥

व्याख्या
॥ श्लोक 18.50 ॥

सिद्धिं प्राप्तो यथा ब्रह्म तथा‌प्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥

व्याख्या
॥ श्लोक 18.51-53 ॥

बुद्ध्या विशुद्धया युक्तो धृत्या‌ऽऽत्मानं नियम्य च ।
शब्दादीन् विषयांस् त्यक्त्वा रागद्वेषौ व्युदस्य च ॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपश्रितः ॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥

व्याख्या
॥ श्लोक 18.54 ॥

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥

व्याख्या
॥ श्लोक 18.55 ॥

भक्त्या माम् अभिजानाति यावान् यश् चा‌स्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥

व्याख्या
॥ श्लोक 18.56 ॥

सर्वकर्माणि अपि सदा कुर्वाणो मद्-व्यपाश्रयः ।
मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥

व्याख्या
॥ श्लोक 18.57 ॥

चेतसा सर्वकर्माणि मयि संन्यस्य मत्-परः ।
बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव ॥

व्याख्या
॥ श्लोक 18.58 ॥

मच्चित्तः सर्वदुर्गाणि मत्-प्रसादात् तरिष्यसि ।
अथ चेत् त्वम् अहङ्कारान् न श्रोष्यसि विनङ्क्ष्यसि ॥

व्याख्या
॥ श्लोक 18.59 ॥

यद् अहङ्कारम् आश्रित‍्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष‍्यति ॥

व्याख्या
॥ श्लोक 18.60 ॥

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशोऽपि तत् ॥

व्याख्या
॥ श्लोक 18.61 ॥

ईश्वरः सर्वभूतानां हृद्-देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥

व्याख्या
॥ श्लोक 18.62 ॥

तम् एव शरणं गच्छ सर्वभावेन भारत ।
तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥

व्याख्या
॥ श्लोक 18.63 ॥

इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥

व्याख्या
॥ श्लोक 18.64 ॥

सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥

व्याख्या
॥ श्लोक 18.65 ॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥

व्याख्या
॥ श्लोक 18.66 ॥

सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥

व्याख्या
॥ श्लोक 18.67 ॥

इदं ते ना‌तपस्काय ना‌भक्ताय कदाचन ।
न चा‌शुश्रूषवे वाच्यं न च मां यो‌ऽभ्यसूयति ॥

व्याख्या
॥ श्लोक 18.68 ॥

य इदं परमं गुह्यं मद्भक्तष्व् अभिधास्यति ।
भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः ॥

व्याख्या
॥ श्लोक 18.69 ॥

न च तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तमः ।
भविता न च मे तस्माद् अन्यः प्रियतरो भुवि ॥

व्याख्या
॥ श्लोक 18.70 ॥

अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः ।
ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥

व्याख्या
॥ श्लोक 18.71 ॥

श्रद्धावान् अनसूयश् च शृणुयाद् अपि यो नरः ।
सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥

व्याख्या
॥ श्लोक 18.72 ॥

कच्चिद् एतच् छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिद् अज्ञानसम्ममोहः प्रणष्टस् ते धनञ्जय ॥

व्याख्या
॥ श्लोक 18.73 ॥

अर्जुन उवाच ।
नष्टो मोहः स्मृतिर् लब्धा त्वत्-प्रसादात् मयाऽच्युत ।
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥

व्याख्या
॥ श्लोक 18.74 ॥

सञ्जय उवाच ।
इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥

व्याख्या
॥ श्लोक 18.75 ॥

व्यास-प्रसादाच् श्रुतवान् एतद् गुह्यम् अहं परम् ।
योगं योगेश्वात् कृष्णात् साक्षात् कथयतः स्वयम् ॥

व्याख्या
॥ श्लोक 18.76 ॥

राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ।
केशव-अर्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः ॥

व्याख्या
॥ श्लोक 18.77 ॥

तच् च संस्मृत्य संस्मृत्य रूपम् अत्यन्तम् अद्भुतम् ।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥

व्याख्या
॥ श्लोक 18.78 ॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥

व्याख्या