अर्जुन उवाच ।
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरम् अव्यक्तं तेषां के योगवित्तमाः ॥
श्रीभगवानुवाच ।
मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥
ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥
क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥
तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि न चिरात् पार्थ मय्य् आवेशितचेतसाम् ॥
मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो माम् इच्छ।आप्तुं धनञ्जय ॥
अभ्यासेऽप्य् असमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥
अथैतद् अप्य् अशक्तोऽसि कर्तुं मद्योगम् आश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥
श्रेयो हि ज्ञानम् अभ्यासाज्
ज्ञानाद् ध्यानं विशिष्यते ।
ध्यानात् कर्मफलत्यागस्
त्यागाच् छान्तिर् अनन्तरम् ॥
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्य् अर्पितमनोबुद्धिर् यो मद्भक्तः स मे प्रियः ॥
यस्मान् नोद्विजते लोको
लोकान् नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्
मुक्तो यः स च मे प्रियः ॥
अनपेक्षः शुचिर् दक्ष
उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी
यो मद्भक्तः स मे प्रियः ॥
यो न हृष्यति न द्वेष्टि
न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी
भक्तिमान् यः स मे प्रियः ॥
समः शत्रौ च मित्रे च
तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु
समः सङ्गविवर्जितः ॥
तुल्यनिन्दास्तुतिर् मौनी
सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्
भक्तिमान् मे प्रियो नरः ॥
ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास् तेऽतीव मे प्रियाः ॥