🏠

॥ भगवद्गीता — त्रयोदशोऽध्यायः ॥

क्षेत्रक्षेत्रज्ञविभागयोगः

॥ श्लोक 13.1 ॥

अर्जुन उवाच ।
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञम् एव च ।
एतद् वेदितुम् इच्छामि ज्ञानं ज्ञेयं च केशव ॥

व्याख्या
॥ श्लोक 13.2 ॥

श्रीभगवानुवाच ।
इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ।
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥

व्याख्या
॥ श्लोक 13.3 ॥

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥

व्याख्या
॥ श्लोक 13.4 ॥

तत् क्षेत्रं यच् च यादृक् च यद्विकारि यतश् च यत् ।
स च यो यत्प्रभावश् च तत् समासेन मे शृणु ॥

व्याख्या
॥ श्लोक 13.5 ॥

ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् ।
ब्रह्मसूत्रपदैश् चैव हेतुमद्भिर् विनिश्चितैः ॥

व्याख्या
॥ श्लोक 13.6-7 ॥

महाभूतान्य् अहङ्कारो बुद्धीर् अव्यक्तम् एव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश् चेतना धृतिः ।
एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥

व्याख्या
॥ श्लोक 13.8-12 ॥

अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् ।
आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥
इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥
असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥
मयि चानन्ययोगेन भक्तिर् अव्यभिचारिणी ।
विविक्तदेशसेवित्वम् अरतिर् जनसंसदि ॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतोऽन्यथा ॥

व्याख्या
॥ श्लोक 13.13 ॥

ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वाऽमृतम् अश्नुते ।
अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ॥

व्याख्या
॥ श्लोक 13.14 ॥

सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल् लोके सर्वम् आवृृत्य तिष्ठति ॥

व्याख्या
॥ श्लोक 13.15 ॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च ॥

व्याख्या
॥ श्लोक 13.16 ॥

बहिरन्तश् च भूतानाम् अचरं चरम् एव च ।
सूक्ष्मत्वात् तद् अविज्ञेयं दूरस्थं चान्तिके च तत् ॥

व्याখ্যা
॥ श्लोक 13.17 ॥

अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् ।
भूतभर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥

व्याখ্যা
॥ श्लोक 13.18 ॥

ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥

व्याখ্যা
॥ श्लोक 13.19 ॥

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते ॥

व्याখ্যা
॥ श्लोक 13.20 ॥

प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ।
विकारांश् च गुणांश् चैव विद्धि प्रकृतिसम्भवान् ॥

व्याখ্যা
॥ श्लोक 13.21 ॥

कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते ॥

व्याখ্যা
॥ श्लोक 13.22 ॥

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥

व्याখ্যা
॥ श्लोक 13.23 ॥

उपद्रष्टा‌नुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्य् उक्तो देहेऽस्मिन् पुरुषः परः ॥

व्याখ্যা
॥ श्लोक 13.24 ॥

य एवम् वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥

व्याখ্যা
॥ श्लोक 13.25 ॥

ध्यानेना‌त्मनि पश्यन्ति केचिद् आत्मानम् आत्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥

व्याখ্যা
॥ श्लोक 13.26 ॥

अन्ये त्व् एवम् अजानन्तः श्रुत्वा‌न्येभ्य उपासते ।
तेऽपि चातितरन्त्य् एव मृत्युं श्रुतिपरायणाः ॥

व्याখ্যা
॥ श्लोक 13.27 ॥

यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ ॥

व्याখ্যা
॥ श्लोक 13.28 ॥

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ॥

व्याখ্যা
॥ श्लोक 13.29 ॥

समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् ।
न हिनस्त्य् आत्मना‌त्मानं ततो याति परां गतिम् ॥

व्याখ্যা
॥ श्लोक 13.30 ॥

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथा‌त्मानम् अकर्तारं स पश्यति ॥

व्याখ্যা
॥ श्लोक 13.31 ॥

यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥

व्याख्या
॥ श्लोक 13.32 ॥

अनादित्वान् निर्गुणत्वात् परमात्मा‌यम् अव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥

व्याখ্যা
॥ श्लोक 13.33 ॥

यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते ।
सर्वत्रा‌वस्थितो देहे तथा‌त्मा नोपलिप्यते ॥

व्याখ্যা
॥ श्लोक 13.34 ॥

यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥

व्याख्या
॥ श्लोक 13.35 ॥

क्षेत्रक्षेत्रज्ञयोर् एवम् अन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर् यान्ति ते परम् ॥

व्याख्या