🏠

॥ भगवद्गीता — एकादशोऽध्यायः ॥

विश्वरूपदर्शनयोगः

॥ श्लोक 11.1 ॥

अर्जुन उवाच ।
मदनुग्रहाय परमं गुह्यम् अध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥

व्याख्या
॥ श्लोक 11.2 ॥

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि चाव्ययम् ॥

व्याख्या
॥ श्लोक 11.3 ॥

एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर ।
द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥

व्याख्या
॥ श्लोक 11.4 ॥

मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ॥

व्याख्या
॥ श्लोक 11.5 ॥

श्रीभगवानुवाच ।
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नाना‌वर्णकृतीनि च ॥

व्याख्या
॥ श्लोक 11.6 ॥

पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा ।
बहून्यदृष्टपूर्वाणि पश्या‌श्चर्याणि भारत ॥

व्याখ্যা
॥ श्लोक 11.7 ॥

इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि ॥

व्याख्या
॥ श्लोक 11.8 ॥

न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥

व्याখ্যা
॥ श्लोक 11.9 ॥

सञ्जय उवाच ।
एवम् उक्त्वा ततो राजन् महायोगेश्वरो हरिः ।
दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥

व्याख्या
॥ श्लोक 11.10 ॥

अनेकवक्त्रनयनम् अनेका‌द्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्या‌नेकोद्यतायुधम् ॥

व्याখ্যা
॥ श्लोक 11.11 ॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वा‌श्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥

व्याख्या
॥ श्लोक 11.12 ॥

दिवि सूर्यसहस्रस्य भवेद् युगपद् उत्थिता ।
यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः ॥

व्याख्या
॥ श्लोक 11.13 ॥

तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा ।
अपश्यद् देवदेवस्य शरीरे पाण्डवस् तदा ॥

व्याख्या
॥ श्लोक 11.14 ॥

ततः स विस्मया‌विष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिर् अभ्।आषत ॥

व्याখ্যা
॥ श्लोक 11.15 ॥

अर्जुन उवाच ।
पश्यामि देवांस् तव देव देहे
सर्वांस् तथा भूतविशेषसङ्घान् ।
ब्रह्माणम् ईशं कमलासनस्थम्
ऋषींश् च सर्वान् उरगांश् च दिव्यान् ॥

व्याख्या
॥ श्लोक 11.16 ॥

अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस् तवा‌दिं
पश्यामि विश्वेश्वर विश्वरूप ॥

व्याख्या
॥ श्लोक 11.17 ॥

किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्कद्युतिम् अप्रमेयम् ॥

व्याख्या
॥ श्लोक 11.18 ॥

त्वम् अक्षरं परमं वेदितव्यम्
त्वम् अस्य विश्वस्य परं निधानम् ।
त्वम् अव्ययः शाश्वतधर्मगोप्ता
सनातनस् त्वं पुरुषो मतो मे ॥

व्याख्या
॥ श्लोक 11.19 ॥

अनादिमध्यान्तम् अनन्तवीर्यम्
अनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वम् इदं तपन्तम् ॥

व्याখ্যা
॥ श्लोक 11.20 ॥

द्यावापृथिव्योर् इदम् अन्तरं हि
व्याप्तं त्वयैकेन दिशश् च सर्वाः ।
दृष्ट्वा‌द्भुतं रूपम् उग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥

व्याখ্যা
॥ श्लोक 11.21 ॥

अमी हि त्वां सुरसङ्घा विशन्ति
केचिद् भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्य् उक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥

व्याখ্যা
॥ श्लोक 11.22 ॥

रुद्रा‌दित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश् चोष्मपाश् च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश् चैव सर्वे ॥

व्याख्या
॥ श्लोक 11.23 ॥

रूपं महत् ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ॥

व्याখ্যা
॥ श्लोक 11.24 ॥

नभःस्पृशं दीप्तम् अनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ॥

व्याख्या
॥ श्लोक 11.25 ॥

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास ॥

व्याख्या
॥ श्लोक 11.26 ॥

अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवा‌वनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस् तथा‌सौ
सहास्मदीयैर् अपि योधमुख्यैः ॥

व्याখ্যা
॥ श्लोक 11.27 ॥

वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि ।
केचिद् विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैर् उत्तमाङ्गैः ॥

व्याখ্যা
॥ श्लोक 11.28 ॥

यथा नदीनां बहवोऽम्बुवेगाः
समुद्रम् एवा‌भिमुखा द्रवन्ति ।
तथा तवा‌मी नरलोकवीरा
विशन्ति वक्त्राण्य् अभिविज्वलन्ति ॥

व्याख्या
॥ श्लोक 11.29 ॥

यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्
तवा‌पि वक्त्राणि समृद्धवेगाः ॥

व्याখ্যা
॥ श्लोक 11.30 ॥

लेलिह्यसे ग्रसमानः समन्ताल्
लोकान् समग्रान् वदनैर् ज्वलद्भिः ।
तेजोभिर् आपूर्य जगत् समग्रं
भासस् तवो‌ग्राः प्रतपन्ति विष्णो ॥

व्याখ্যা
॥ श्लोक 11.31 ॥

आख्याहि मे को भवान् उग्ररूपो
नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुम् इच्छामि भवन्तम् आद्यं
न हि प्रजानामि तव प्रवृत्तिम् ॥

व्याখ্যা
॥ श्लोक 11.32 ॥

श्रीभगवानुवाच ।
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो
लोकान् समाहर्तुम् इह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥

व्याখ্যা
॥ श्लोक 11.33 ॥

तस्मात् त्वम् उत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वम् एव
निमित्तमात्रं भव सव्यसाचिन् ॥

व्याख्या
॥ श्लोक 11.34 ॥

द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथा‌न्यानपि योधवीरान् ।
मया हतान् त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥

व्याখ্যা
॥ श्लोक 11.35 ॥

सञ्जय उवाच ।
एतच् छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर् वेपमानः किरीटी ।
नमस्कृत्वा भूय एवा‌ह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ॥

व्याখ্যা
॥ श्लोक 11.36 ॥

अर्जुन उवाच ।
स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्य् अनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥

व्याখ্যা
॥ श्लोक 11.37 ॥

कस्माच् च ते न नमेरन् महात्मन्
गरीयसे ब्रह्मणोऽप्य् आदिकर्त्रे ।
अनन्त देवेश जगन्निवास
त्वम् अक्षरं सदसत् तत् परं यत् ॥

व्याख्या
॥ श्लोक 11.38 ॥

त्वम् आदिदेवः पुरुषः पुराणस्
त्वम् अस्य विश्वस्य परं निधानम् ।
वेत्ता‌सि वेद्यं च परं च धाम
त्वया ततं विश्वम् अनन्तरूप ॥

व्याख्या
॥ श्लोक 11.39 ॥

वायुर् यमोऽग्निर् वरुणः शशाङ्कः
प्रजापतिस् त्वं प्रपितामहश् च ।
नमो नमस् तेऽस्तु सहस्रकृत्वः
पुनश् च भूयोऽपि नमो नमस् ते ॥

व्याख्या
॥ श्लोक 11.40 ॥

नमः पुरस्ताद् अथ पृष्ठतस् ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस् त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ॥

व्याख्या
॥ श्लोक 11.41 ॥

सखेति मत्वा प्रसभं यद् उक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वाऽपि ॥

व्याখ্যা
॥ श्लोक 11.42 ॥

यच् चा‌वहासार्थम् असत्कृतोऽसि
विहारशय्या‌सनभोजनेषु ।
एकोऽथवा‌प्य् अच्युत तत् समक्षं
तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥

व्याখ্যা
॥ श्लोक 11.43 ॥

पिता‌सि लोकस्य चराचरस्य
त्वम् अस्य पूज्यश् च गुरुर् गरीयान् ।
न त्वत्समोऽस्त्य् अभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्य् अप्रतिमप्रभाव ॥

व्याখ্যা
॥ श्लोक 11.44 ॥

तस्मात् प्रणम्य प्रणिधाय कायं
प्रसादये त्वाम् अहम् ईशम् ईड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥

व्याখ্যা
॥ श्लोक 11.45 ॥

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तद् एव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ॥

व्याख्या
॥ श्लोक 11.46 ॥

किरीटिनं गदिनं चक्रहस्तम्
इच्छामि त्वां द्रष्टुम् अहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते ॥

व्याख्या
॥ श्लोक 11.47 ॥

श्रीभगवानुवाच ।
मया प्रसन्नेन तवा‌र्जुनेदं
रूपं परं दर्शितम् आत्मयोगात् ।
तेजोमयं विश्वम् अनन्तम् आद्यं
यन् मे त्वद् अन्येन न दृष्टपूर्वम् ॥

व्याख्या
॥ श्लोक 11.48 ॥

न वेदयज्ञा‌ध्ययनैर् न दानैर्
न च क्रियाभिर् न तपोभिर् उग्रैः ।
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वद् अन्येन कुरुप्रवीर ॥

व्याख्या
॥ श्लोक 11.49 ॥

मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनर् त्वं
तद् एव मे रूपम् इदं प्रपश्य ॥

व्याख्या
॥ श्लोक 11.50 ॥

सञ्जय उवाच ।
इत्य् अर्जुनं वासुदेवस् तथोक्त्वा
स्वकं रूपं दर्शयाम् आस भूयः ।
आश्वासयाम् आस च भीतम् एनं
भूत्वा पुनः सौम्यवपुर् महात्मा ॥

व्याখ্যা
॥ श्लोक 11.51 ॥

अर्जुन उवाच ।
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥

व्याখ্যা
॥ श्लोक 11.52 ॥

श्रीभगवानुवाच ।
सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम ।
देवा अप्य् अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥

व्याख्या
॥ श्लोक 11.53 ॥

नाहं वेदैर् न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवान् असि मां यथा ॥

व्याখ্যা
॥ श्लोक 11.54 ॥

भक्त्या त्व् अनन्यया शक्य अहम् एवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥

व्याख्या
॥ श्लोक 11.55 ॥

मत्कर्मकृन् मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स माम् एति पाण्डव ॥

व्याখ্যা